आज का पंचांग | सूर्योदय: ०५:४५ AM | सूर्यास्त: ०६:५० PM
Radha Kriya Kataksh Stotram

श्री शिव सहस्रनाम स्तोत्र (Shri Shiva Sahasranama Stotram Lyrics in Hindi) - Shiv Sahashtranam - Bhaktilok

161 पाठकों ने पढ़ा | लेखक: Deepak Kumar Bind | 2 मिनट पठन समय
आकार:
कंट्रास्ट:

 

श्री शिव सहस्रनाम स्तोत्र (Shiva Sahasranama Stotram Lyrics in Hindi) - 


शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं

शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तं ।

नागं पाशं च घण्टां प्रलयहुतवहं चाङ्कुशं वामभागे

नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥


। स्तोत्रम् ।


ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥


जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।

हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ 2 ॥


प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।

श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ 3 ॥


अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥


महारूपो महाकायो वृषरूपो महायशाः ।

महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ 5 ॥


लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।

पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ 6 ॥


सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।

सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ 7 ॥


चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।

अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥


महातपा घोरतपा अदीनो दीनसाधकः ।

संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥


योगी योज्यो महाबीजो महारेता महाबलः ।

सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ 10 ॥


दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।

विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः ॥ 11 ॥


गणकर्ता गणपतिर्दिग्वासाः काम एव च ।

मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः ॥ 12 ॥


कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।

अशनी शतघ्नी खड्गी पट्‍टिशी चायुधी महान् ॥ 13 ॥


स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।

उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ 14 ॥


दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।

सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ 15 ॥


अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।

ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्स्थलः ॥ 16 ॥


त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।

अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ 17 ॥


गजहा दैत्यहा कालो लोकधाता गुणाकरः ।

सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥


कालयोगी महानादः सर्वकामश्चतुष्पथः ।

निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥


बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।

नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ 20 ॥


घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।

सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ 21 ॥


अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।

दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥


तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः ।

गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ 23 ॥


न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।

सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ 24 ॥


विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः ।

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ 25 ॥


विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः ।

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥


उग्रतेजा महातेजा जन्यो विजयकालवित् ।

ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ 27 ॥


शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।

वेणवी पणवी ताली खली कालकटङ्कटः ॥ 28 ॥


नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।

प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः ॥ 29 ॥


विमोचनः सुसरणो हिरण्यकवचोद्भवः ।

मेघजो बलचारी च महीचारी स्रुतस्तथा ॥ 30 ॥


सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।

व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ 31 ॥


त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।

बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ 32 ॥


साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।

प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ 33 ॥


सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।

हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ 34 ॥


लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।

सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥


मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।

सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ 36 ॥


सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।

आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ 37 ॥


रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसी ।

वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥


सर्ववासी श्रियावासी उपदेशकरोऽकरः ।

मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ 39 ॥


पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः ।

उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ 40 ॥


वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।

सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ 41 ॥


भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।

महासेनो विशाखश्च षष्ठिभागो गवाम्पतिः ॥ 42 ॥


वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।

वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ 43 ॥


वाचस्पत्यो वाजसनो नित्याश्रमपूजितः ।

ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ 44 ॥


ईशान ईश्वरः कालो निशाचारी पिनाकवान् ।

निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 45 ॥


नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।

भगहारी निहन्ता च कालो ब्रह्मपितामहः ॥ 46 ॥


चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।

लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ 47 ॥


बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः ।

इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ 48 ॥


दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।

लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ 49 ॥


अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।

नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ 50 ॥


बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।

वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ 51 ॥


महामेघनिवासी च महाघोरो वशीकरः ।

अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥


वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः ।

नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥


स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।

उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ 54 ॥


कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।

महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥


महामूर्धा महामात्रो महानेत्रो निशालयः ।

महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ 56 ॥


महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।

महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ 57 ॥


लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।

महादन्तो महादम्ष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥


महानखो महारोमा महाकोशो महाजटः ।

प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ 59 ॥


स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।

वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ 60 ॥


गण्डली मेरुधामा च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ 61 ॥


यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ 62 ॥


उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥ 63 ॥


द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥


सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥


लोकपालस्तथालोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥


आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ 67 ॥


कपिलः कपिशः शुक्लः आयुश्चैव परोः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ 68 ॥


परश्वधायुधो देवः ह्यनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ 69 ॥


उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥


बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
सयज्ञारिः सकामारिर्महादम्ष्ट्रो महायुधः ॥ 71 ॥


बहुधानिन्दितः शर्वः शङ्करः शङ्करोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥


अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा ।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥


धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥


प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ 75 ॥


विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ 76 ॥


बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ 77 ॥


सर्वाशयो दर्भचारी सर्वेषां प्राणिनाम्पतिः ।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ 78 ॥


कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥


वणिजो वर्धकी वृक्षो वकुलश्चन्दनछ्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ 80 ॥


सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदम्ष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥


प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 82 ॥


भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 83 ॥


वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥


धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ 85 ॥


हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ 86 ॥


गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ 87 ॥


महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ 88 ॥


तोरणस्तारणो वातः परिधीपतिखेचरः ।
सम्योगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः ॥ 89 ॥


नित्य आत्मा सहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ 90 ॥


आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥


शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ 92 ॥


समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ 93 ॥


रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ 94 ॥


आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो योगकरो हरिः ॥ 95 ॥


युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ 96 ॥


बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ 97 ॥


त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ 98 ॥


निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ 99 ॥


मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ 100 ॥


छत्रं सुछत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ 101 ॥


हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 102 ॥


सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥


ब्रह्मदण्डविनिर्माता शतघ्नी पाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥


गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 105 ॥


ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ 106 ॥


कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः ॥ 107 ॥


वरो वराहो वरदो वरेण्यः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 108 ॥


प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ 109 ॥


चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यः विवस्वान्सविताऽमृतः ॥ 110 ॥


व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ।
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ 111 ॥


कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्सुनिर्गमः ॥ 112 ॥


सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 113 ॥


निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥


देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥


देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥


देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ 117 ॥


उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥


विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानाम्प्रभवोऽव्ययः ॥ 119 ॥


गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥


अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ 121 ॥


स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥


व्रताधिपः परं ब्रह्म भक्तानाम्परमागतिः।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ 123 ॥

इति श्री शिव सहस्रनाम स्तोत्र ||

प्रभु श्री राम के आदर्शों और मर्यादा पुरुषोत्तम के सम्पूर्ण चरित्र का रसास्वादन करने के लिए रामायण महाग्रंथ अन्वेषक का उपयोग करें।

सनातन संस्कृति एवं प्रामाणिक संपादन

यह भजन/आरती लिरिक्स भक्तिलोक संपादकीय मंडल द्वारा उपलब्ध प्रामाणिक स्रोतों के संदर्भ में समीक्षा एवं संपादन के बाद प्रकाशित किया गया है।

समीक्षित एवं सत्यापित अंतिम अद्यतन: 10 Aug 2026

पाठकों के विचार (0)

भक्ति रस चर्चा में भाग लें

लिरिक्स कॉपी कर लिया गया है!
(function() { let voiceCounter = 0; const answers = { "ध्यान": "ध्यान मन को स्थिर करने और भीतर विद्यमान चैतन्य (आत्मा) से जुड़ने का वैज्ञानिक मार्ग है। दैनिक १०-१५ मिनट का ध्यान तनाव को कम करता है, मस्तिष्क की एकाग्रता बढ़ाता है और आत्मिक शांति प्रदान करता है। साधना खंड में हमारे 'श्लोक उच्चारण' व '४३२Hz ध्यान संगीत' का उपयोग करें।", "पंचांग": "वैदिक पंचांग काल-गणना की अत्यंत सटीक वैज्ञानिक प्रणाली है। यह मुख्य रूप से पांच अंगों: तिथि, वार, नक्षत्र, योग और करण पर आधारित होती है। इसके माध्यम से सौर तथा चंद्र गतियों के अनुसार शुभ मुहूर्त और राहु काल की स्थिति की गणना की जाती है।", "चार धाम": "सनातन संस्कृति में चार धाम - उत्तर में श्री बद्रीनाथ, पश्चिम में द्वारकाधीश, पूर्व में जगन्नाथ पुरी और दक्षिण में रामेश्वरम ज्योतिर्लिंग हैं। इन चारों धामों की स्थापना आदि गुरु शंकराचार्य जी ने देश की भौगोलिक एवं आध्यात्मिक एकता को अक्षउन बना रखने के उद्देश्य से की थी।", "आज का पंचांग": "आज का पंचांग देखने के लिए कृपया हमारे 'आज का वैदिक पंचांग' विजेट को देखें। वर्तमान दिन के अनुसार तिथि तथा राहु काल की सटीक गणना वहां उपलब्ध है।", "गायत्री": "गायत्री महामंत्र (ॐ भूर्भुवः स्वः...) समस्त वेदों का सार माना गया है। यह सविता देव (सूर्य) की उपासना करता है ताकि हमारी बुद्धि सन्मार्ग की ओर प्रेरित हो। इसका नित्य उच्चारण बुद्धि तीव्र करता है।", "केदारनाथ": "केदारनाथ मंदिर उत्तराखंड के पवित्र हिमालय क्षेत्र में मन्दाकिनी नदी के तट पर स्थित है। यह शिव जी के १२ ज्योतिर्लिंगों में से एक है। इसकी स्थापना पांडवों द्वारा की गई मानी जाती है और आदि गुरु शंकराचार्य ने इसका पुनरुद्धार किया था।" }; function matchResponse(query) { query = query.toLowerCase(); if (query.includes("ध्यान") || query.includes("meditation") || query.includes("sadhana")) { return answers["ध्यान"]; } else if (query.includes("पंचांग") || query.includes("panchang")) { return answers["पंचांग"]; } else if (query.includes("धाम") || query.includes("dham")) { return answers["चार धाम"]; } else if (query.includes("गायत्री") || query.includes("gayatri")) { return answers["गायत्री"]; } else if (query.includes("केदारनाथ") || query.includes("kedarnath")) { return answers["केदारनाथ"]; } else { return "वत्स! आपका प्रश्न अत्यंत कल्याणकारी है। सनातन मार्ग ज्ञान, भक्ति और कर्म का मार्ग है। मन को शांत कर सत्यपथ पर चलें। क्या आप किसी विशिष्ट तीर्थ यात्रा अथवा दैनिक साधना के बारे में जानना चाहते हैं?"; } } window.readGuruVoice = function(text, btnId) { window.speechSynthesis.cancel(); const utterance = new SpeechSynthesisUtterance(text); utterance.lang = 'hi-IN'; utterance.rate = 0.85; const btn = document.getElementById(btnId); if (btn) { btn.innerHTML = ' श्रवण जारी है...'; } utterance.onend = () => { if (btn) btn.innerHTML = ' सुनें (Listen)'; }; utterance.onerror = () => { if (btn) btn.innerHTML = ' सुनें (Listen)'; }; window.speechSynthesis.speak(utterance); }; function initChatbot() { const launcher = document.getElementById('chatLauncher'); const drawer = document.getElementById('chatDrawer'); const closeBtn = document.getElementById('chatClose'); const input = document.getElementById('chatInput'); const sendBtn = document.getElementById('chatSendBtn'); const body = document.getElementById('chatBody'); if (!launcher || !drawer || !closeBtn || !input || !sendBtn || !body) { return; } launcher.addEventListener('click', function(e) { e.stopPropagation(); drawer.classList.toggle('open'); }); closeBtn.addEventListener('click', function(e) { e.stopPropagation(); drawer.classList.remove('open'); }); input.addEventListener('keydown', e => { if (e.key === 'Enter') { submitGlobalMessage(); } }); sendBtn.addEventListener('click', submitGlobalMessage); window.sendGlobalSuggestion = function(text) { input.value = text; submitGlobalMessage(); }; function submitGlobalMessage() { const query = input.value.trim(); if (query === "") return; // User Message bubble const userMsg = document.createElement('div'); userMsg.className = 'chat-msg user'; userMsg.textContent = query; body.appendChild(userMsg); input.value = ""; body.scrollTop = body.scrollHeight; // Typing Indicator const typingIndicator = document.createElement('div'); typingIndicator.className = 'chat-msg guru typing-indicator-container'; typingIndicator.innerHTML = `
`; body.appendChild(typingIndicator); body.scrollTop = body.scrollHeight; // Response Delay setTimeout(() => { if (body.contains(typingIndicator)) { body.removeChild(typingIndicator); } const responseText = matchResponse(query); const guruMsg = document.createElement('div'); guruMsg.className = 'chat-msg guru'; voiceCounter++; const btnId = `global-guru-speech-${voiceCounter}`; guruMsg.innerHTML = `
${responseText}
`; body.appendChild(guruMsg); body.scrollTop = body.scrollHeight; }, 1200); } } if (document.readyState === 'loading') { document.addEventListener('DOMContentLoaded', initChatbot); } else { initChatbot(); } })(); �थ": "केदारनाथ मंदिर उत्तराखंड के पवित्र हिमालय क्षेत्र में मन्दाकिनी नदी के तट पर स्थित है। यह शिव जी के १२ ज्योतिर्लिंगों में से एक है। इसकी स्थापना पांडवों द्वारा की गई मानी जाती है और आदि गुरु शंकराचार्य ने इसका पुनरुद्धार किया था।" }; function matchResponse(query) { query = query.toLowerCase(); if (query.includes("ध्यान") || query.includes("meditation") || query.includes("sadhana")) { return answers["ध्यान"]; } else if (query.includes("पंचांग") || query.includes("panchang")) { return answers["पंचांग"]; } else if (query.includes("धाम") || query.includes("dham")) { return answers["चार धाम"]; } else if (query.includes("गायत्री") || query.includes("gayatri")) { return answers["गायत्री"]; } else if (query.includes("केदारनाथ") || query.includes("kedarnath")) { return answers["केदारनाथ"]; } else { return "वत्स! आपका प्रश्न अत्यंत कल्याणकारी है। सनातन मार्ग ज्ञान, भक्ति और कर्म का मार्ग है। मन को शांत कर सत्यपथ पर चलें। क्या आप किसी विशिष्ट तीर्थ यात्रा अथवा दैनिक साधना के बारे में जानना चाहते हैं?"; } } let voiceCounter = 0; window.readGuruVoice = function(text, btnId) { window.speechSynthesis.cancel(); const utterance = new SpeechSynthesisUtterance(text); utterance.lang = 'hi-IN'; utterance.rate = 0.85; const btn = document.getElementById(btnId); btn.innerHTML = ' श्रवण जारी है...'; utterance.onend = () => { btn.innerHTML = ' सुनें (Listen)'; }; utterance.onerror = () => { btn.innerHTML = ' सुनें (Listen)'; }; window.speechSynthesis.speak(utterance); }; function submitGlobalMessage() { const query = input.value.trim(); if (query === "") return; // User Message bubble const userMsg = document.createElement('div'); userMsg.className = 'chat-msg user'; userMsg.textContent = query; body.appendChild(userMsg); input.value = ""; body.scrollTop = body.scrollHeight; // Typing Indicator const typingIndicator = document.createElement('div'); typingIndicator.className = 'chat-msg guru typing-indicator-container'; typingIndicator.innerHTML = `
`; body.appendChild(typingIndicator); body.scrollTop = body.scrollHeight; // Response Delay setTimeout(() => { body.removeChild(typingIndicator); const responseText = matchResponse(query); const guruMsg = document.createElement('div'); guruMsg.className = 'chat-msg guru'; voiceCounter++; const btnId = `global-guru-speech-${voiceCounter}`; guruMsg.innerHTML = `
${responseText}
`; body.appendChild(guruMsg); body.scrollTop = body.scrollHeight; }, 1200); } });